|
|
 |
 |
|
|
५ उद्योगपर्व.jpg)
॥ श्रीः ॥
5.106. अध्यायः 106
Mahabharata - Udyoga Parva - Chapter Topics
निर्बन्धस्यानर्थहेतुतायां निदर्शनप्रदर्शनाय दुर्योधनंप्रति नारदेन गालवोपाख्यानकथनारम्भः ॥ 1 ॥ विश्वामित्रेण गुरुदक्षिणानिषेधनेऽपि निर्बन्धकारिणं गालवंप्रति एकतश्श्यामकर्णश्वेताश्वशताष्टकानयननियोगः ॥ 2 ॥
Mahabharata - Udyoga Parva - Chapter Text
जनमेजय उवाच। 5-106-0x(3710)(35517)
अनर्थे जातिनिर्बन्धं परार्थे लोभमोहितम्।
अनार्यकेष्वभिरतं मरणे कृतनिश्चयम् ॥ 5-106-1(35518)
ज्ञातीनां दुःखकर्तारं बन्धूनां शोकवर्धनम् ।
सुहृदां क्लेशदातारं द्विषतां हर्षवर्धनम् ॥ 5-106-2(35519)
कथं नैनं विमार्गस्थं वारयन्तीह बान्धवाः।
सौहृदाद्वा सुहृत्स्निग्धो भगवान्वा पितामहः ॥ 5-106-3(35520)
वैशम्पायन उवाच। 5-106-4x(3711)
उक्तं भगवता वाक्यमुक्तं भीष्मेण यत्क्षमम्।
उक्तं बहुविधं चैव नारदेनापि तच्छृणु ॥ 5-106-4(35521)
नारद उवाच। 5-106-5x(3712)
दुर्लभो वै सुहृच्छ्रोता दुर्लभश्च हितः सुहृत्।
तिष्ठते हि सुह्यद्यत्र न बन्धुस्तत्र तिष्ठते ॥ 5-106-5(35522)
श्रोतव्यमपि पश्यापि सुहृदां कुरुनन्दन।
न कर्तव्यश्च निर्बन्धो निर्बन्धो हि सुदारुणः ॥ 5-106-6(35523)
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
यथा निर्बन्धतः प्राप्तो गालवेन पराजयः ॥ 5-106-7(35524)
विश्वामित्रं तपस्यन्तं धर्मो जिज्ञासया पुरा ।
अभ्यगच्छत्स्वयं भूत्वा वसिष्ठो भगवानृषिः ॥ 5-106-8(35525)
सप्तर्षीणामन्यतमं वेषमास्थाय भारत।
बभुक्षुः क्षुधितो राजन्नाश्रमं कौशिकस्य तु ॥ 5-106-9(35526)
विश्वामित्रोऽथ संभ्रान्तः श्रपयामास वै चरुम् ।
परमान्नस्य यत्नेन न च तं प्रत्यपालयत् ॥ 5-106-10(35527)
अन्नं तेन यदा भुक्तमन्यैर्दत्तं तपस्विभिः ।
अथ गृह्णान्नमत्युष्णं विश्वामित्रोऽप्युपागमत् ॥ 5-106-11(35528)
भुक्तं मे तिष्ठ तावत्त्वमित्युक्त्वा भगवान्ययौ ।
विश्वामित्रस्ततो राजन्स्थित एव महाद्युतिः ॥ 5-106-12(35529)
भक्तं प्रगृह्य मूर्ध्ना वै बाहुभ्यां संशितव्रतः ।
स्थितः स्थाणुरिवाभ्याशे निश्चेष्टो मारुताशनः ॥ 5-106-13(35530)
तस्य शुश्रूषणे यत्नमकरोद्गालवो मुनिः ।
गौरवाद्बहुमानाच्च हार्देन प्रियकाम्यया ॥ 5-106-14(35531)
अथ वर्षशते पूर्णे धर्मः पुनरुपागमत्।
वासिष्ठं वेषमास्थाय कौशिकं भोजनेप्सया ॥ 5-106-15(35532)
स दृष्ट्वा शिरसा भक्तं ध्रियमाणं महर्षिणा ।
तिष्ठता वायुभक्षेण विश्वामित्रेण धीमता ॥ 5-106-16(35533)
प्रतिगृह्य ततो धर्मस्तथैवोष्णं तथा नवम् ।
भुक्त्वा प्रीतोस्मि विप्रर्षे तमुक्त्वा स मुनिर्गतः ॥ 5-106-17(35534)
क्षत्रभावादपगतो ब्राह्मणत्वमुपागतः।
धर्मस्य वचनात्प्रीतो विश्वामित्रस्तथाऽभवत्॥ 5-106-18(35535)
विश्वामित्रस्तु शिष्यस्य गालवस्य तपस्विनः ।
शुश्रूषया च भक्त्या च प्रीतिमानित्युवाच ह ॥ 5-106-19(35536)
अनुज्ञातो मया वत्स यथेष्टं गच्छ गवालव।
इत्युक्तः प्रत्युवाचेदं गालवो मुनिसत्तमम् ॥ 5-106-20(35537)
प्रीतो मधुरया वाचा विश्वामित्रं महाद्युतिम् ।
दक्षिणाः काः प्रयच्छामि भवते गुरुकर्मणि ॥ 5-106-21(35538)
दक्षिणाभिरुपेतं हि कर्म सिद्ध्यति मानद।
दक्षिणानां हि दाता वै अपवर्गेण युज्यते ॥ 5-106-22(35539)
स्वर्गे क्रतुफलं तद्धि दक्षिणा शान्तिरुच्यते।
किमाहरामि गुर्वर्थं ब्रवीतु भगवानिति ॥ 5-106-23(35540)
स जानानस्तु भगवान्खिन्नं शुश्रूषणेन वै।
विश्वामित्रस्तमसकृद्गच्छ गच्छेत्यचोदयत् ॥ 5-106-24(35541)
असकृद्गच्छगच्छेति विश्वामित्रेण भाषितः ।
किं ददानीति बहुशो गालवः प्रत्यभाषत ॥ 5-106-25(35542)
निर्बन्धतस्तु बहुशो गालवस्य तपस्विनः।
किंचिदागतसंरम्भो विश्वामित्रोऽब्रवीदिदम् ॥ 5-106-26(35543)
एकतःश्यामकर्णानां हयानां चन्द्रवर्चसाम्।
अष्टौ शतानि मे देहि गच्छ गालव मा चिरम् ॥ ॥ 5-106-27(35544)
इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि षडधिकशततमोऽध्यायः ॥
Mahabharata - Udyoga Parva - Chapter Footnotes
5-106-1 परार्थे परस्वनिमित्तम् ॥ 5-106-5 सुहृत् प्रत्युपकारमनपेक्ष्य उपकर्ता ॥ 5-106-6 श्रोतव्यं श्रोतुं युक्तम्। निर्बन्धः सत्यपि बलवद्बाधके तत्रैवाग्रहः ॥ 5-106-10 न प्रत्यपालयत् अन्नसिद्धिपर्यन्तं न प्रतीक्षितवान् ॥ 5-106-11 तेन वसिष्ठेन । उपागमत् वसिष्ठसमीपम् ॥ 5-106-13 मूध्नी बाहुभ्यां च परिगृह्य। अभ्याशे समीपे आश्रमस्य ॥ 5-106-14 गौरवात् गुरुत्वात्। बहुमानात् लोकपूज्यत्वात्। हार्देन प्रीत्या ॥ 5-106-19 शुश्रूषया सेवया। भक्त्या आराध्यत्वज्ञानेन ॥ 5-106-21 गुरुकर्मणि ब्रह्मचर्यव्रतसमाप्तौ सत्याम् ॥ 5-106-22 अपवर्गेण फलप्राप्त्या ॥ 5-106-23 क्रतुफलं दक्षिणाप्रद एव प्राप्नोति । शान्तिः सर्वोपद्रवहारिणी ॥ 5-106-27 श्यामो हरितः । एकतः बहिःप्रदेशे एव श्यामाः कर्णा येषां एकतःश्यामकर्णानाम् ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|